top of page

नवयुवद्वन्द्वदिदृक्षाष्टकम् (रघुनाथदासगोस्वामिविरचितम्) | Navayuva dvandvadidrikshashtakam

श्रीनवयुवद्वन्द्वदिदृक्षाष्टकम् 
स्फुरदमलमधूलीपूर्णराजीवराज-
     न्नवमृगमदगन्धद्रोहिदिव्याङ्गगन्धं
मिथ इह उदितैरुन्मादितान्तर्विघूर्ण-
     द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ १॥

कनकगिरिखलोद्यत्केतकीपुष्पदीव्य-
     न्नवजलधरमालाद्वेषिदिव्योरुकान्त्या ।
सबलमिव विनोदैरीक्षयात्स्वं मिथस्त-
     द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ २॥

निरुपमनवगौरीनव्यकन्दर्पकोटि
     प्रठितमधुरिमोर्मिक्षालितश्रीनखान्तम् ।
नवनवरुचिरागैर्हृष्टमिष्टैर्मिथस्त-
     द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ३॥

मदनरसविघूर्णन्नेत्रपद्मान्तनृत्यैः
     परिकलितमुखेन्दुह्रीविनाम्रं मिथोऽल्पैः ।
अपि च मधुरवाचं श्रोतुमावर्धिताशं
     व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ४॥

स्मरसमरविलासोद्गारमङ्गेषु रङ्गै-
     स्तिमितनवसखीषु प्रेक्षमानासु भङ्ग्या ।
स्मितमधुरदृगन्तैर्ह्रीणसम्फुल्लवक्त्रं
     व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ५॥

मदनसमरचर्याचार्यमापूर्णपुण्य
     प्रसरनववधूभिः प्रार्थ्य…
bottom of page