top of page
नवाष्टकम् (रघुनाथदासगोस्वामिविरचितम्) | navashtakam
नवाष्टकम्
गौरीं गोष्ठवनेश्वरीं गिरिधरप्रानाधिकप ्रेयसीं
स्वीयप्राणपरार्धपुष्पपटलीनिर्मञ्छ्यतत्पद्धतिम् ।
प्रेम्णा प्रानवयस्यया ललितया संलालितां नर्मभिः
सिक्तां सुष्ठु विशाखया भज मनो राधामगाधां रसैः ॥ १॥
स्वीयप्रेष्ठसरोवरान्तिकवलत्कुञ्जान्तरे सौरभो-
त्फुल्लत्पुष्पमरन्दलुब्धमधुपश्रेणीध्वनिभ्राजिते ।
माद्यन्मन्मथराज्यकार्यमसकृद्सम्भालयन्तीं स्मरा-
मात्यश्रीहरिणा समं भज मनो राधामगाधां रसैः ॥ २॥
कृष्णापङ्गतरङ्गतुङ्गिततरानङ्गासुरङ्गां गिरं
भङ्ग्या लङ्गिमसङ्गरे विदधतीं भङ्गं नु तद्रङ्गिणः ।
फुल्लत्स्मेरसखीनिकायनिहितस्वाशीःसुधास्वादन
लब्धोन्मादधुरोद्धुरां भज मनो राधामगाधां रसैः ॥ ३॥
जित्वा पाशककेलिसङ्गरतरे निर्वादब…bottom of page
