top of page

प्रार्थनामृतस्तोत्रम् (रघुनाथदासगोस्वामिविरचितम्) | prarthana amrita stotram

प्रार्थनामृतस्तोत्रम् 
श्रीरूपरतिमञ्जर्योरङ्घ्रिसेवैकगृध्नुना ।
असङ्ख्येनापि जनुषा व्रजे वासोऽस्तु मेऽनिशम् ॥ १॥

अयं जीवो रङ्गैर्नयनयुगलस्यन्दिसलिल
     प्रधौताङ्गो रङ्गो घटितपटुरोमालिनटनः ।
कदा रासे लास्यैः प्रेमजलपरिक्लिन्नपुलक-
     श्रियौ राधाकृष्णौ मदनसुनटौ विजयति भोः ॥ २॥

प्रेमोद्रेकैर्नयननिपतद्वारिधारो धरण्यां
     वैवर्ण्यालीसवलितवपुः प्रौढकम्पः कदाहम् ।
स्वेदाम्भोभिः स्नपितपुलकश्रेणिमूलः स्मितोक्तौ
     राधाकृष्णौ मदनसमरस्फारदक्षौ स्मरामि ॥ ३॥

मसारक्ष्मासारोद्भवनवतमालोद्भटमद-
     प्रहारिश्रीभारोज्ज्वलवपुषमुद्याछुचिरसैः ।
कदा राकाचन्द्रस्तुतवदननिद्रालसदृशं
     दृशा कृष्णं वक्षःस्वपनपरराधं सखि भजे ॥ ४॥

सरा…
bottom of page