top of page

प्रेमसुधासत्रम् अथवा वृन्दावनेश्वर्या एवं राधिकाष्टोत्तरशतनामस्तोत्रं (रूपगोस्वामिविरचितम्) | Prem Sudha Satram

श्रीप्रेमसुधासत्रम् 
श्रीवृन्दावनेश्वर्या अष्टोत्तरशतनामस्तोत्रं
श्रीराधिकाष्टोत्तरशतनामस्तोत्रं च ।
नमो वृन्दावनेश्वर्यै ।
मानसं मानसं त्यागादुत्कण्ठार्तं निरुन्धतीम् ।
राधां संविद्य विद्याढ्या तुङ्गविद्येदमब्रवीत् ॥ १॥

विमुञ्च बन्धुरे मानं निर्बन्धं श‍ृणु मे वचः ।
पुरा कन्दर्पसुन्दर्यै यान्युत्कण्ठितचेतसे ॥ २॥

भगवतोपदिष्टानि तव सख्योपलब्धये ।
इङ्गिताभिज्ञया तानि सिन्दूरेणाद्य वृन्दया ॥ ३॥

विलिख्य सखि दत्तानि स जीवितसुहृत्तमः ।
विरहार्तस्तवेमानि जपन्नामानि शाम्यति ॥ ४॥

राधा कृष्णवनाधीशा मुकुन्दमधुमाधवी ।
गोविन्दप्रेयसीवृन्दमुख्या वृन्दावनेश्वरी ॥ ५॥

ब्रह्माण्डमण्डलोत्तंसकीरित्ः…
bottom of page