top of page
प्रेमाम्भोजमरन्दस्तवराजः (रघुनाथदासगोस्वामिविरचितः) | Premambhojamaranda stavarajah
प्रेमाम्भोजमरन्दस्तवराजः
महाभावोज्ज्वलच्चिन्तारत्नोद्भावितविग्रहाम् ।
सखीप्रणयसद्गन्धवरोद्वर्तनसुप्रभाम् ॥ १॥
कारुण्यामृतवीचिभिस्तारुण्यामृतधारया ।
लावण्यामृतवन्याभिः स्नपितां ग्लप्तेन्दिराम् ॥ २॥
ह्रीपट्टवस्त्रगुप्ताङ्गीं सौन्दर्यघुसृणाञ्चिताम् ।
श्यामलोज्ज्वलकस्तूरीविचित्रितकलेवराम् ॥ ३॥
कम्पाश्रुपुलकस्तम्भस्वेदगद्गदरक्तताः ।
उन्मादो जाड्यमित्येतै रथनिर्नवभिरुत्तमैः ॥ ४॥
कॢप्तालङ्कृतिसंस्लिष्टां गुणालीपुष्पमालिनीम् ।
धीराधीरात्वसद्वासपटवासैः परिष्कृताम् ॥ ५॥
प्रच्छन्नमानधम्मिल्लां सौभाग्यतिलकोज्ज्वलाम् ।
कृष्णनामयशःश्राववतंसोल्लासिकर्णिकाम् ॥ ६॥
रागताम्बूलरक्तौष्ठीं प्रेमकौटिल्यकज्जलाम् ।
नर्मभाषितनिस्यन्दस्मितकर्पूरवासिताम् ॥ ७॥
सौरभान्तःपुरे गर्वपर्यङ्कोपरि लीलया ।
निविष्टां प्रेमवैचित्त्यविचलत्तरलाञ्चिताम् ॥ ८॥
प्रणयक्रोधसच्चोलीबन्ध्गुप्तीकृतस्तनाम् ।
सपत्नीवक्त्रहृच्छोषियशःश्रीकच्छपीवराम् ॥ ९॥
मध्यतात्मसखीस्कन्धलीलान्यस्तकराम्बुजाम् ।
श्यामां श्यामस्मरामोदमधुलीपरिवेशिकाम् ॥ १०॥
त्वां नत्वा याचते धृत्वा तृणं दन्तैरयं…bottom of page
