top of page
युगलकिशोराष्टकम् (रूपगोस्वामिविरचितं) | Yugala kishor Ashtakam
श्रीयुगलकिशोराष्टकम्
श्रीमद्रूपगोस्वामिविर चितम् ।
नवजलधरविद्युद्योतवर्णौ प्रसन्नौ
वदननयनपद्मौ चारुचन्द्रावतंसौ ।
अलकतिलकफालौ केशवेशप्रफुल्लौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ १॥
वसनहरितनीलौ चन्दनालेपनाङ्गौ
मणिमरकतदीप्तौ स्वर्णमालाप्रयुक्तौ ।
कनकवलयहस्तौ रासनाट्यप्रसक्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ २॥
अतिमतिहरवेशौ रङ्गभङ्गीत्रिभङ्गौ
मधुरमृदुलहास्यौ कुण्डलाकीर्णकर्णौ ।
नटवरवररम्यौ नृत्यगीतानुरक्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ ३॥
विविधगुणविदग्धौ वन्दनीयौ सुवेशौ
मणिमयमकराद्यैः शोभिताङ्गौ स्फुरन्तौ ।
स्मितनमित…bottom of page
