top of page

युगलाष्टकम् (माधवेन्द्रपुरीविरचितं) | Yugal ashtakam

श्रीयुगलाष्टकम् 

श्रीमाधवेन्द्रपुरीविरचितम् ।
वृन्दावनविहाराढ्यौ सच्चिदानन्दविग्रहौ ।
मणिमण्डपमध्यस्थौ राधाकृष्णौ नमाम्यहम् ॥ १॥

पीतनीलपटौ शान्तौ श्यामगौरकलेवरौ ।
सदा रासरतौ सत्यौ राधाकृष्णौ नमाम्यहम् ॥ २॥

भावाविष्टौ सदा रम्यौ रासचातुर्यपण्डितौ ।
मुरलीगानतत्त्वज्ञौ राधाकृष्णौ नमाम्यहम् ॥ ३॥

यमुनोपवनावासौ कदम्बवनमन्दिरौ ।
कल्पद्रुमवनाधीशौ राधाकृष्णौ नमाम्यहम् ॥ ४॥

यमुनास्नानसुभगौ गोवर्धनविलासिनौ ।
दिव्यमन्दारमालाढ्यौ राधाकृष्णौ नमाम्यहम् ॥ ५॥

मञ्जीररञ्जितपदौ नासाग्रगजमौक्तिकौ ।
मधुरस्मेरसुमुखौ राधाकृष्णौ नमाम्यहम् ॥ ६॥

अनन्तकोटिब्रह्माण्डे सृष्टिस्थित्यन्तकारिणौ ।
मोहनौ सर्वलोकानां राधाकृष्णौ नमाम्यहम् ॥…
bottom of page