top of page

राधाकवचम् (ब्रह्मयामलान्तर्गतम्) | Radha kavacham brahmayamala

श्रीराधाकवचस्तोत्रम् 

श्रीपार्वत्युवाच ॥

ॐ देवदेव महादेव परमप्रीतिदायक ।
राधायाः कवचं देव कथय प्राणवल्लभ ॥ १॥

श्रीमहादेवौवाच ॥

साधु साधु महादेवि भद्रं भद्रं सुमङ्गलम् ।
प्रेमभावान्वितायाश्च राधायाः कवचं परम् ॥ २॥

श्यामप्रेमविलासन्या गोपिन्या प्रेमसागरे ।
मग्नायाः कवचं देवि कथयामि श‍ृणुष्व तत् ॥ ३॥

ऋषिर्नारायणः प्रोक्तो गायत्री छन्द इत्यपि ।
देवता राधिकादेवी प्रेमभक्तिप्रदायिका ॥ ४॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
तप्तकाश्चनगौराङ्गी राधा वृन्दावनेश्वरी ॥…
bottom of page