top of page
राधाकृष्णकवचम् (विश्वनाथसारोद्धारे महातन्त्रे) | Radha krishna kavacham
श्रीराधाकृष्णकवचम्
ॐ श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
अधुना कथयिष्यामि राधकृष्णस्य भैरवि ।
कवचं मन्त्रगर्भं तु वज्रपञ्जरसंज्ञकम् ॥ १॥
रहस्यं सर्वदेवानां मर्त्यानां च विशेषतः ।
अस्यैव धारणाच्चाहं सर्वज्ञोऽस्मि महेश्वरि ॥ २॥
यद्धारणात्ससर्जादौ ब्रह्मा सृष्टिं पृथग्विधाम् ।
यं धृत्वा त्रिदशेन्द्रत्वं प्रालेभे पाकशासनः ॥ ३॥
व्योम्नि प्रकाशते भानुर्नित्यं यद्धारणात्प्रिये ॥
सर्वप्राणिनियन्तापि बभूव धर्मराड्यतः ॥ ४॥
धनाध्यक्षः कुबेरोऽभूदस्य सन्धारणादपि ॥
यस्मिन्धृते पाशहस्तः सलिलेशो बभूव…bottom of page
