top of page

राधाकृष्णप्रादुर्भावः | Radha Krishna pradurbhav

श्रीराधाकृष्णप्रादुर्भावः 
श्रीमते रामानुजाय नमः ।
श्रीराधानटवराभ्यां नमः ।

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
नमो राधाधरसुधासिन्धुनित्यविहारिणे ॥ १॥

राधाकृष्णस्वरूपां वै कृष्णराधास्वरूपिणम् ।
कालात्मानं निकुञ्जस्थं गुरुरूपं सदा भजे ॥ २॥

हरिणीं हारिणीं ह्रीणां हरितां चतुरक्रियाम् ।
कौमारीं सततं वन्दे तप्तचामीकरप्रभाम् ॥ ३॥

मुग्धां स्निग्धां विदग्धां चासन्दिग्धां चतुरक्रियाम् ।
वन्दे रणक्रियाभासा देवर्षिप्रमुखाकृतीः ॥ ४॥

सिञ्जन्नूपुरपादपद्मयुगलां हंसीगतिं बिभ्रतीं
     चञ्चत्खञ्जनमञ्जुलोचनयुगां पीनोल्लसत्कन्धराम् ।
बिभ्रत्काञ्चनकङ्कणं द्युतिमिलत्पाणौ चलच्चामरं
     कुर्वाणां हरिर…
bottom of page