top of page
राधाकृष्णसुप्रभातम् | radha Krishna suprabhatam
श्रीराधाकृष्णसुप्रभातम्
सत्यं धर्ममपीह रक्षितुमहो भूभारनाशा य वै
दैत्यैस्तापितसर्वदैवतगणान् संरक्षितुं लीलया ।
लीलामानुषविग्रहः समभवद्यो वा हरिर्भूतले
राधाकृष्णमहाप्रभुः स भगवान् रक्षां करोत्वन्वहम् ॥ १॥
गोपीरूपधरान् महामुनिगणान् गोरूपदेवान् सदा
रक्षायै समनुग्रहाय च मुदा कृष्णं वपुः प्राप यः
सोऽयं सार्वजनीनवन्द्यविभवो विश्वैकरक्षाकरः
राधाकृष्णमहाप्रभो सुरपते ते सुप्रभातं शुभम् ॥ २॥
सौन्दर्यं किल मूर्तमेव सकलं लोकैकविस्मापकं
चौर्यं यस्य च भक्तसङ्घविनुतं पापापहं प्रत्यहम् ।
मुष्णन्त्यद्य हि कृष्णचौर्यसुकथाः भक्तस्य दुःखानि…bottom of page
