top of page

राधाकृष्णस्तुतिः | Radha Krishna stuti

श्रीराधाकृष्णस्तुतिः 

नवललितवयस्कौ नव्यलावण्यपुञ्जौ
नवरसचलचित्तौ नूतनप्रेमवृत्तौ ।
नवनिधुवनलीलाकौतुकेनातिलोलौ
स्मरनिभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥

द्रुतसुकनकसुगौरस्निग्धमेघौघनील-
च्छविभिरखिलवृन्दारण्यमुद्भासयन्तौ ।
मृदुलनवदुकूले नीलपीते दधानौ
स्मर निभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥

इति श्रीराधाकृष्णस्तुतिः समाप्ता ।

bottom of page