top of page
राधाकृष्णस्तोत्रम् | Radha Krishna stotram
श्रीराधाकृष्णस्तोत्रम्
॥ अथ ब्रह्मादिकृतं श्रीराधाकृष्णस्तोत् रम् ॥
ब्रह्मोवाच ।
तव चरणसरोजे मन्मनश्चरीको
भ्रमतु सततमीश प्रेमभक्त्या सरोजे ।
भवनमरणरोगात् पाहि शान्त्यौषधेन
सुदृढसुपरिपक्वाम् देहि भक्तिं च दास्यम् ॥ १॥
शंकर उवाच ।
भवजलनिधिमग्नश्चित्तमीनो मदीयो
भ्रमति सततमस्मिन् घोर्संसार्कूपे ।
विषयमतिविनिन्द्यं सृष्टिसंहाररूपम्-
अपनय तव भक्तिं देहि पादारविन्दे ॥ २॥
धर्म उवाच ।
तव निजजनसार्धं संगमो मे सदैव
भवतु विषयबन्धच्छेदने तिक्ष्णखड्गः ।
तव चरणसरोजस्थानदानैकहेतुर्-
जनुषि जनुषि भक्तिं देहि पादारविन्दे ॥ ३॥
॥…