top of page

राधाकृष्णोज्ज्वलकुसुमकेलिः (रघुनाथदासगोस्वामिविरचिता) | Radha Krishna Ujjvala kusumakeli

श्रीश्रीराधाकृष्णोज्ज्वलकुसुमकेलिः 
सखीवृन्दैर्वृन्दार्चितमुदितवृन्दावनपदं
     विनोदेनासाद्य प्रियकुसुमपात्राङ्कुरफलम् ।
हरन्त्यां राधायां ध्वनिभिरभिसङ्गम्य गिरिभृ-
     द्धृताटोपं ताभिः सह विवदमानोऽवददिदम् ॥ १॥

रहः पाटचर्यः कुरुत किमिदं यौवतमदा-
     त्स्फुटं युष्माभिर्मे विपिनमपणं नाशितमदः ।
अतो वल्लर्यर्थे तनुतटिमवश्यं फलकृते
     कुचान्वो लुण्ठामः किसलयपदे चाधरकुलम् ॥ २॥

इति निशम्य भ्रुभङ्गमवलोकन्त्यां ललितायामन्याः सस्मितमूचुः
वदन्त्यः स्मो नूनं तव किटव सत्यं हितमिदं
     वृथाटोपं हित्वा व्रज झटटि नन्दीश्वर…
bottom of page