top of page

राधागुणवर्णनम् (ब्रह्मवैवर्तपुराणान्तर्गतम्) | Radha gunavarnanam

श्रीराधागुणवर्णनम् 

श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् ।
मोहिनीं मानसानां च मुनीनामूर्ध्वरेतसाम् ॥ ७७॥

सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमण्डलाम् ।
नितम्बकठिनश्रोणीं स्तनयुग्मोन्नताननाम् ॥ ७८॥

कोटीन्दुनिन्दितास्यां तां सस्मितां सुदतीं सतीम् ।
कज्जलोज्ज्वलरूपां च शरत्कमललोचनाम् ॥ ७९॥

महालक्ष्मीं बीजरूपां परामाद्यां सनातीम् ।
परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवताम् ॥ ८०॥

स्तुतां च पूजितां चैव परां च परमात्मने ।
ब्रह्मस्वरूपां निर्लिप्तां नित्यरूपां च निर्गुणाम् ॥ ८१॥

विश्वानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् ।
मर्त्यस्वरूपां शुद्धां च पूतां…
bottom of page