top of page
राधानामावलिः (श्रीरामनन्दनमयूरेश्वरकृतम्) | Radha namavali
श्रीराधानामावलिः
(*अपूर्णा)
श्रीकृष्णदयिता श ्रीड्या श्रीकण्ठस्तुतसद्गुणा ।
श्रीमती श्रीदपन्द्यान्निर्विधिमाता सुरार्चिता ॥ १॥
राधा महासती मान्या पुण्यकीर्तिसुधासरित् ।
भद्रादितिस्नुषाख्याता देवी त्रैलोक्यसुन्दरी ॥ २॥
व्यासादिसत्कविस्तव्या शुकयोगीन्द्रवर्णिता ।
भगवत्सस्कृतारामा सुभगा कोटिसंस्तुता ॥ ३॥
मधुभिन्मोहिनी मुख्या मानिनी मधुराकृतिः ।
ललना ललितानन्दप्राप्ताशीर्वृषभानुजा ॥ ४॥
यशोदालालिता लक्ष्मीसपत्नी लक्षणाश्रया ।
राजगोपाललीलोत्का गोपीवृन्दशिरोमणिः ॥ ५॥
कृष्णदर्शनसर्वस्वा कृष्णसर्वस्वदर्शना ।
वासुदेवसखी पुण्या वरेण्यपरदा वरा ॥ ६॥
धरालिरार्या स्वार्तिघ्नी सदाराध्या सनातनी ।
गोलोकवासिनी नित्यानन्दा नन्दात्मजानुगा ॥…bottom of page
