top of page
राधापटलस्तोत्रम् | radha patal astotram
श्रीराधापटलस्तोत्रम्
ईश्वर उवाच ॥
प्रणवं पूर्वमुद्धृत्य हृन्मन्त् रं च ततः पठेत् ।
रमार्णेन युतो राधाकान्तः प्रोच्यस्ततः परम् ॥ १॥
शरणं पदमुच्चार्य ममेति पदमुच्चरेत् ।
मनुरेष तु श्रीराधाकृष्णयोः परमाद्भुतः ॥ २॥
जपमात्रेण जीवानां दृष्टादृष्टफलप्रदः ।
अस्मात्परतरो मन्त्रो नास्ति नास्ति वरानने ॥ ३॥
यस्मिञ्जप्ते तयोरेव स्वीयबुद्धिस्तु साधके ।
जायते कृतकृत्योसौ तथा भवति शाम्भवि ॥ ४॥
ध्रुवमुच्चार्य हृन्मन्त्रं वदेदथ रमार्णकम् ।
पावकं शेषसंयुक्तं धनेशं…bottom of page
