top of page

राधापरीहारस्तोत्रम् (ब्रह्मवैवर्तपुराणान्तर्गतम्) | radha parihara stotram

राधापरीहारस्तोत्रम् 

कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ।
रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ॥ ४७॥

कृष्णप्रिया च गोलोके तुलसीकानने तु या ।
चम्पावती कृष्णसङ्गे क्रीडा चम्पककानने ॥ ४८॥

चन्द्रावली चन्द्रवने शतश‍ृङ्गे सतीति च ।
विरजा दर्पहन्त्री च विरजातटकानने ॥ ४९॥

पद्मावती पद्मवने कृष्णा कृष्णसरोवरे ।
भद्रा कुञ्जकुटीरे च काम्या वै कम्यके वने ॥ ५०॥

वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि ।
क्षीरोदे सिन्धुकन्या…
bottom of page