top of page

राधापूजाविधिवर्णनम् (ब्रह्मवैवर्तपुराणान्तर्गतम्) | Radha puja vidhi varnam

राधापूजाविधिवर्णनम् 

श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ।
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।
सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम् ॥ १०॥

मुक्तापङ्क्तिप्रतिनिधिदन्तपङ्क्तिमनोहराम् ।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।
वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम् ॥ ११॥

रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् ।
रत्नकुण्डलयुग्मेन विचित्रेण विराजिताम् ।
सूर्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम् ॥ १२॥

अमूल्यरत्नखचितग्रैवेयकविभूषिताम् ।
सद्रत्नसारखचितकिरीटमुकुटोज्ज्वलाम् ।
रत्नाङ्गुलीयसंयुक्तां रत्नपाशकशोभिताम् ॥ १३॥

बिभ्रतीं कबरीभारं मालतीमाल्यशोभिताम् ।
रूपाधिष्ठातृदेवीं च मत्तवारणगामिनीम् ॥ १४॥

गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ।
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ॥ १५॥

सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम् ।
नित्यं सुपूजितां भक्त्या कृष्णेन परमात्मना…
bottom of page