top of page

राधाप्रातःस्मरणस्तोत्रम् | Radha pratah smarana stotram

श्रीराधाप्रातःस्मरणस्तोत्रम् 

श्रीकृष्णचित्तकमलासनमध्यसुस्थे
मन्दस्मितारुणविपाटलगण्डयुग्मे ।
सौन्दर्यसागरतरङ्गकटाक्षरूपे
श्रीराधिकेऽब्जवदने तव सुप्रभातम् ॥ १॥

उत्तिष्ठ पद्मचरणे परपद्मरूढे
उत्तिष्ठ कृष्णरमणे परकामरूपे ।
उत्तिष्ठ देवि शिवविष्णुविधातृवन्द्ये
मातः समस्तजगतां तव सुप्रभातम् ॥ २॥

राधेति वाग्दलपुटेन तु ये जपन्ति
ते राध्नुवन्ति परमोर्ध्वगतिं त्वदेव ।
गोलोकराज्यमहिषीश्वरपूज्यपादे
भक्तिं विदेही कमले तव सुप्रभातम् ॥ ३॥

दामोदरप्रणयकेलिरतातुराङ्गे
भर्तुं जगत्स्वपयसा परितत्परोसि ।
उत्तिष्ठ तापविपिपासनमुद्विहर्तुं
मेऽऽराधिते सुललिते तव सुप्रभातम् ॥ ४॥

रासेश्वरीति परमाजगदम्बिकेति
कृष्णप्रियेति कमलाकमलोद्भवेति ।
प्रातो जपामि तव नाम सदैव देवि
श्रीराधिके…