top of page

राधाप्रार्थनाचतुःश्लोकी (विठ्ठलेश्वरविरचिता) | Radha prarthana chatuh shloki

राधाप्रार्थनाचतुःश्लोकी 
राधा कैंकर्यप्रार्थनाचतुःश्लोकी

कृपयति यदि राधा बाधिताशेषबाधा
     किमपरमवशिष्टं पुष्टिमर्यादयोर्मे ।
यदि वदति च किञ्चित्स्मेरहासोदितश्री-
     र्द्विजवरमणिपङ्क्त्या भुक्तिशुक्त्या तदा किम् ॥ १॥

श्यामसुन्दर शिखण्डशेखर
     स्मेरहास्य मुरलीमनोहर ।
राधिकारसिक मां कृपानिधे
     स्वप्रियाचरणकिङ्करं कुरुष्व ॥ २॥

प्राणनाथ वृषभानुनन्दिनी
     श्रीमुखाब्जरसलोलषट्पद ।
राधिकापदतले कृतस्थिति-
     स्त्वां भजामि रसिकेन्द्रशेखर ॥ ३॥

संविधाय दशने तृणं विभो
     प्रार्थये व्रजमहेन्द्रनन्दन ।
अस्तु मोहन तवातिवल्लभा
     जन्म…
bottom of page