top of page
राधामाहात्म्यम् (सार्थम्, नारदपञ्चरात्रान्तर्गतम्) | Radha Mahatmyam
श्रीराधामाहात्म्यम्
श्रीमहादेव उवाच -
श्रीकृष्णोरसि या राधा यद्वामांशेन सम्भवा ।
महालक्ष्मीश्च वैकुण्ठे सा च नारायणोरसि ॥ १॥
सरस्वती सा च देवी विदुषां जननी परा ।
क्षीरोदसिन्धुकन्या सा विष्णूरसि च मायया ॥ २॥
सावित्री ब्रह्मणो लोके ब्रह्मवक्षःस्थले स्थिता ।
पुरा सुराणां तेजस्सु साऽऽविर्भूता दया हरेः ॥ ३॥
स्वयं मूर्तिमती भूत्वा जघान दैत्यसङ्घकान् ।
ददौ राज्यं महेन्द्राय कृत्वा निष्कण्टकं पदम्…bottom of page
