top of page
राधावराष्टकम् ३ राधिकाधिपाष्टकम् (निम्बार्काचार्यविरचितं) | radha varashtakam 3
श्रीराधावराष्टकम्
चतुर्मुखादिसंस्तुतं समस्तसात्वतानुतम् ।
हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ १॥
बकादिदैत्यकालकं सगोपगोपिपालकम् ।
मनोहरासितालकं नमामि राधिकाधिपम् ॥ २॥
सुरेन्द्रगर्वभञ्जनं विरञ्चिमोहभञ्जनम् ।
व्रजाङ्गनानुरञ्जनं नमामि राधिकाधिपम् ॥ ३॥
मयूरपिच्छमण्डनं गजेन्द्रदन्तखण्डनम् ।
नृशंसकंसदण्डनं नमामि राधिकाधिपम् ॥ ४॥
प्रदत्तविप्रदारकं सुदामधामकारकम् ।
सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ ५॥
धनञ्जयाजयावहं महाचमूक्षया वहम् ।
पितमहव्यथापहं नमामि राधिकाधिपम् ॥ ६॥
मुनीन्द्रशापकारणं यदुप्रजापहारणम् ।
धराभरावत…bottom of page
