top of page
राधावर्णमालास्तुतिः (कृष्णयामलतन्त्रान्तर्गता) | radha varna mala stuti
राधावर्णमालास्तुतिः
श्रीकृष्ण उवाच -
वशगापि महादेवी यदि नातिप्रसीदति ।
ततस्तां स्तोतुमारब्धवानहं प्रेमगद्गदः ॥ १॥
शब्दब्रह्ममयीं वंशीं मूर्छयन् स्वरसम्पदा ।
ततो व्यक्तोऽव्यक्तरूपो नादः सप्तविधोऽभवत् ॥ २॥
निषादर्षभगान्धारषड्जमध्यमधैवताः (दैवताः)
पञ्चमश्चेति तैर्नादैः रागाः समभवंश्च षट् ॥ ३॥
एकैकस्यानुगामिन्यो रागिन्यः षट् षडुज्ज्वलाः ।
तथा तालगणाश्चैव त्रयो ग्रामास्तथैव च ॥ ४॥
ताराद्याश्च त्रयश्चैव मूर्च्छनास्त्वेकविंशतिः । (तालाद्याश्च)
ततो भगवती देवी गायत्री त्रिपदाऽभवत् ॥ ५॥
ततोऽपि वेदाश्चत्वारः श्रुतयश्च…bottom of page
