top of page
राधाविनोदविहारितत्त्वाष्टकम् | Radha vinod vihari tattva ashtakam
राधाविनोदविहारितत्त्वाष्टकम्
राधाचिन्तानिवेशे न यस्य कान्तिर्विलोपिता ।
श्रीकृष्णचरणं वन्दे राधालिङ्गितविग्रहम् ॥ १॥
सेव्यसेवकसम्भोगे द्वयोर्भेदः कुतो भवेत् ।
विप्रलम्भे तु सर्वस्य भेदः सदा विवर्धते ॥ २॥
चिल्लीलामिथुनं तत्त्वं भेदाभेदमचिन्त्यकम् ।
शक्तिशक्तिमतोरैक्यं युगपद्वर्तते सदा ॥ ३॥
तत्त्वमेकं परं विद्याल्लीलया तद्द्विधा स्थितम् ।
गौरः कृष्णः स्वयं ह्येतदुभावुभयम् आप्नुतः ॥ ४॥
सर्वे वर्णाः यत्राविष्टाः गौरकान्तिर्विकाशते ।
सर्ववर्णेन हीनस्तु कृष्णवर्णः प्रकाशते ॥ ५॥
सगुणं निर्गुणं तत्त्वमेकमेवाद्वितीयकम् ।
सर्वनित्यगुणैर्गौरः…bottom of page
