top of page
राधाषोडशनामवर्णनम् (श्रीनारायणकृतम्) | radha Shodasha nama varnam
राधाषोडशनामवर्णनम्
श्रीनारायण उवाच ।
राधा रा सेश्वरी रासवासिनी रसिकेश्वरी ।
कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥ १॥
कृष्णवामाङ्गसम्भूता परमान्दरूपिणी ।
कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥ २॥
चन्द्रावली चन्द्रकान्ता शतचन्द्रप्रभानना ।
नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥ ३॥
राधेत्येवं च संसिद्धौ राकारो दानवाचकः ।
स्वयं निर्वाणदात्री या सा राधा परिकीर्तिता ॥ ४॥
रासेसेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता ।
रासे च वासो यस्याश्च तेन सा रासवासिनी…bottom of page
