top of page

राधाष्टकम् १ (रूपगोस्वामिविरचितम् दिशि दिशि रचयन्ती) | Radha ashtakam 1

श्रीराधाष्टकम् 
ॐ दिशिदिशिरचयन्तीं सञ्चयन्नेत्रलक्ष्मीं
      विलसितखुरलीभिः खञ्जरीटस्य खेलाम् ।
हृदयमधुपमल्लीं वल्लवाधीशसूनो-
      रखिलगुणगभीरां राधिकामर्चयामि ॥ १॥

पितुरिह वृषभानो रत्नवायप्रशस्तिं
      जगति किल सयस्ते सुष्ठु विस्तारयन्तीम् ।
व्रजनृपतिकुमारं खेलयन्तीं सखीभिः
      सुरभिनि निजकुण्डे राधिकामर्चयामि ॥ २॥

शरदुपचितराकाकौमुदीनाथकीर्त्ति-
      प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् ।
नटयदभिदपाङ्गोत्तुङ्गितानं गरङ्गां
      वलितरुचिररङ्गां राधिकामर्चयामि ॥ ३॥

विविधकुसुमवृन्दोत्फुल्लधम्मिल्लधाटी-
      विघटितमदघृर्णात्केकिपिच्छुप्रशस्तिम् ।
मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग-
      स्फुरदमलकपोलां राधिकामर्चयामि ॥ ४॥

नलिनवदमलान्तःस्नेहसिक्तां तरङ्गा-
      मखिलविधिविशाखासख्यविख्यातशीलाम् ।
स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं
      धृतमधुरविनोदां राधिकामर्चयामि ॥ ५॥

अतुलमहसिवृन्दारण्यर…
bottom of page