top of page
राधाष्टकम् ३ (निम्बार्काचार्यविरचितम् नमस्ते श्रियै राधिकायै) | Radha ashtakam 3
राधाष्टकम्
नमस्ते श्रियै राधिकायै परायै
नमस्ते नमस्ते मुकुन्दप्रियायै ।
सदानन्दरूपे प्रसीद त्वमन्तः-
प्रकाशे स्फुरन्ती मुकुन्देन सार्धम् ॥ १॥
स्ववासोपहारं यशोदासुतं वा
स्वदध्यादिचौरं समाराधयन्तीम् ।
स्वदाम्नोदरे या बबन्धाशु नीव्या
प्रपद्ये नु दामोदरप्रेयसीं ताम् ॥ २॥
दुराराध्यमाराध्य कृष्णं वशे तं
महाप्रेमपूरेण राधाभिधाभूः ।
स्वयं नामकीर्त्या हरौ प्रेम यच्छत्
प्रपन्नाय मे कृष्णरूपे समक्षम् ॥ ३॥
मुकुन्दस्त्वया …bottom of page
