top of page

राधाष्टोत्तरशतनामस्तोत्रम् | radha ashtottara shat nama stotram

श्रीराधाष्टोत्तरशतनामस्तोत्रम् 
अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥ १॥

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥ २॥

वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।
गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥ ३॥

चन्द्रावली-सपत्नी च दर्पणस्था कलावती ।
कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥ ४॥

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।
प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥ ५॥

केकराक्षा हरेः कान्ता महालक्ष्मीः सुकेशिनी ।
सङ्केतवटसंस्थाना कमनीया…
bottom of page