top of page
राधासहस्रनामस्तोत्रम् २ (रुद्रयामलान्तर्गतम् श्रीराधाराधिकाऽऽराध्या) | Radha Sahasranama Stotram 2
राधासहस्रनामस्तोत्रम् २
श्रीशिव उवाच -
अथातः संप्रवक्ष्यामि राधानामसहस्रकम् ।
शृणुनारद भद्रं ते गोपनीयं प्रयत्नतः ॥ १॥
प्रातः सायं निशीथेवा पठितव्यं मुमुक्षुभिः ।
त्रिराचम्य शुचिर्भूत्वा यो जपेत्सुसमाहितः ॥ २॥
सवैष्णवो विशुद्धात्मा जायते नात्र संशयः ।
बहु किं पठनादस्य भवेद्विष्णुसमः पुमान् ॥ ३॥
मासैकपठनादस्य भवेत्सर्वार्थसिद्धिदः ।
मासद्वयेन देवर्षे भवेद्वै वैष्णवोत्तमः ॥ ४॥
सोऽम्बरीषः स प्रह्लाद उद्धवः स युधिष्ठिरः ।
सभीष्म अर्जुनश्चैव स्तवराजं…bottom of page
