top of page
राधास्तोत्रम् ०१ (ब्रह्मदेवकृतम्) | Radhastotram Brahmanakritam
श्रीराधास्तोत्रं ब्रह्मदेवकृतम्
ब्रह्मोवाच ।
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ १॥
सुदुर्लभं च सर्वेषां भारते च विशेषतः ।
षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ २॥
भास्करे पुष्करे तिर्थे कृष्णस्य परमात्मनः ।
आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ३॥
वरंवृणीष्वेत्युक्ते च स्वाभिष्टं च वृतं मुदा ।
राधिकाचरणाम्होजं सर्वेषामपि दुर्लभम् ॥ ४॥
हे गुणातित मे स्न्हीघ्रमधुनैव प्रदर्शय ।
मयेत्युक्तो हरिरयमुवाच मां तपस्विनम्…bottom of page
