top of page

राधास्तोत्रम् ०२ (ब्रह्मेशशेषादिकृतम्) | Brahmesha sheshadi kritam shri Radha stotram

श्रीराधास्तोत्रं ब्रह्मेशशेषादिकृतम् 


॥ अथ ब्रह्मेशशेषादिकृतम् श्रीराधास्तोत्रम् ॥

षष्टिवर्षसहस्राणि दिव्यानि परमेश्वरि ।
पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ॥ १ ॥

त्वत्पादपद्ममधुरमधुलुब्धेन चेतसा ।
मधुव्रतेन लोभेन प्रेरितेन मया सति ॥ २ ॥

तथापि न मया लब्धं त्वद्पादपदमीप्सितम् ।
न दृष्टमपि स्वप्नेऽपि जाता वागशरीरिणी ॥ ३ ॥

वाराहे भारते वर्षे पुण्ये वृन्दावने वने ।
सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि ॥…
bottom of page