top of page
राधास्तोत्रम् ०३ (गणेशकृतम्) | ganesh kritam shr Radha stotram
श्रीराधास्तोत्रं गणेशकृतम्
श्रीगणेश उवाच ।
तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे।
ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ १॥
यत्पादपद्ममतुतलं ध्यायन्ते ते सुदुर्लभम् ।
सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ २॥
जिवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः ।
तस्य प्राणाधिदेवि त्वं प्रिया प्राणाधिका परा ॥ ३॥
वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः ।
महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ॥ ४॥
वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी ।
वेदानां जगतामेव मूलप्रकृतिरीश्वरी ॥ ५॥
सर्वाः प्राकृतिका मा…bottom of page
