top of page
राधास्तोत्रम् ०७ (उद्धवकृतम् ब्रह्मवैवर्तपुराणान्तर्गतम्) | Uddhava kritam shri Radha stotram
उद्धवकृतं श्रीराधास्तोत्रम्
उद्धव उवाच ।
वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् ।
यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम् ॥ ६४॥
नमो गोकुलवासिन्यै राधिकायै नमो नमः ।
शतशृङ्गनिवासिन्यै चन्द्रावत्यै नमो नमः ॥ ६५॥
तुलसीवनवासिन्य वृन्दारण्यै नमो नमः ।
रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥ ६६॥
विरजातीरवासिन्यै वृन्दायै च नमो नमः ।
वृन्दावनविलासिन्यै कृष्णायै च नमो नमः ॥ ६७॥
नमः कृष्णप्रियायै च शान्तायै च नमो नमः ।
कृष्णवक्षःस्थितायै…