top of page

राधास्तोत्रम् ०८ (बृहन्नारदीयपुराणान्तर्गतम् राधा कृष्णप्रिया रासेश्वरी गोपीगणाधिपा) | Radha stotram 08

राधास्तोत्रम् ८ 

राधा कृष्णप्रिया रासेश्वरी गोपीगणाधिपा ।
निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी ॥ ८३-४४॥

सर्वेश्वरी सर्वपूज्या वैराजजननी तथा ।
पूर्वाद्याशासु रक्षन्तु पान्तु मां सर्वतः सदा ॥ ८३-४५॥

त्वं देवि जगतां माता विष्णुमाया सनातनी ।
कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ॥ ८३-४६॥

कष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ।
इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत् ॥ ८३-४७॥

एवं यो भजते राधां सर्वाद्यां सर्वमङ्गलाम्…
bottom of page