top of page
राधिकाध्यानामृतस्तोत्रम् (विश्वनाथचक्रवर्तिन् ठक्कुरविरचितम्) | Radhika dhyanamrit stotram by vishva natha chakravartin
श्रीराधिकाध्यानामृतस्तोत्रम्
तडिच्चम्पकस्वर्णकाश्मीरभासः
स्वकान्त्या भृशं दण्डयित्र्या विलासः ।
स्वरूपस्य तस्यास्तु वर्ण्यः
सुबोधद्रवो नामवर्णोऽपि कर्ण्यः ॥ १॥
प्रफुल्लकुसुमप्रभाद्योतितानां
लसच्चन्द्रिकाप्रोतमेघोपमानाम् ।
कचानां सचातुर्यबन्धेयमेणी
दृशः सच्चमर्याग्रिमा भाति वेणी ॥ २॥
महानर्घ्यचूडामणीकामलेखा
प्लुता राजते चारुसीमन्तरेखा ।
उडुद्योतिमुक्तैकपङ्क्तिं वहन्ती
किमास्येन्दुसौधैकधारोच्चलन्ती ॥ ३॥
नवेन्दूपमे पत्रपाश्याप्रभाले
सुलीलालकालीवृते चारुभाले ।
मदेनान्तरा चित्रितं चित्रकं तत्
विभात्यच्युतातृप्तनेत्रैकसम्पत् ॥ ४॥
अतिश्यामला विज्यकन्दर्पचाप
प्रभाजिष्णुतां भ्रूद्वयी कुञ्चिताप ।
मुखाम्भोजमाध्वीकपानादभीष्टा-
…bottom of page
