top of page
राधिकायाःप्रेमपूराभिधस्तोत्रम् (रघुनाथदासगोस्वामिविरचितम्) | Radhikayah premapurabhidha stotram
श्रीराधिकायाः प्रेमपूराभिधस्तोत्रम्
मधुमधुरनिशायां ज्योतिरुद्भासितायां
सितकुसुमसुवासाः कॢप्तकर्पूरभूषा ।
सुबलसखमुपेता दूतिकान्यस्तहस्ता
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ १॥
स्मरगृहमविशन्ती वाम्यतो धाम गन्तुं
सरणिमनुसरन्ती तेन संरुद्ध्य तूर्णम् ।
बलसवलितकाक्वा लम्भितान्तःस्मिताक्षी
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ २॥
मुदिररुचिरवक्षस्युन्नते माधवस्य
स्थिरचरवरविद्युद्वल्लिवन्मल्लितल्पे ।
ललितकनकयूथीमालिकावच्च भान्ती
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ३॥
स्मरविलसिततल्पे जल्पलीलामनल्पां
क्रमकृतिपरिहीनां बिभ्रती तेन सार्धम् ।
मिथ इव प…