top of page

राधिकाष्टोत्तरशतनामस्तोत्रम् (रघुनाथदासगोस्वामिविरचितम्) | Radhika ashtottara shat nama stotram

श्रीराधिकाष्टोत्तरशतनामस्तोत्रम् 
अवीक्षितेश्वरी काचिद्वृन्दावनमहेश्वरीम् ।
तत्पदाम्भोजमात्रैकगतिः दास्यतिकातरा ॥ १॥

पतिता तत्सरस्तीरे रुदत्यार्तरवाकुलम् ।
तच्छ्रीवक्त्रेक्षणप्राप्त्यै नामान्येतानि सञ्जगौ ॥ २॥

राधा गन्धर्विका गोष्ठयुवराजैककामिता ।
गन्धर्वाराधिता चन्द्रकान्तिर्माधवसङ्गिनी ॥ ३॥

दामोदराद्वैतसखी कार्तिकोत्कीर्तिदेश्वरी ।
मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जरी ॥ ४॥

भास्करोपासिका वार्षभानवी वृषभानुजा ।
अनङ्गमञ्जरीज्येष्ठा श्रीदामावरजोत्तमा ॥ ५॥

कीर्तिदाकन्यका मातृस्नेहपीयूषपुत्रिका ।
विशाखासवयाः प्रेष्ठविशाखाजीविताधिका ॥ ६॥

प्राणाद्वितीयाललिता वृन्दावनविहारिणी ।
ललिताप्राणरक्षैकलक्षा वृन्दावनेश्वरी ॥ ७॥

व्रजेन्द्रगृहिणी कृष्णप्रायस्नेहनिकेतनम् ।
व्रजगोगोपगोपालीजीवमात्रैकजीवनम् ॥ ८॥

स्नेहलाभीरराजेन्द्रा वत्सलाच्युतपूर्वजा ।
गोविन्दप्रणयाधारा सुरभीसेवनोत्सुका ॥ ९॥

धृतनन्दीश्वरक्षेमा गमनोत्कण्ठिमानसा…
bottom of page