top of page

राधिकास्तोत्रम् (ब्रह्मकृतं ब्रह्मवैवर्तपुराणान्तर्गतम्) | Brahma kritam Radhika stotram

ब्रह्मकृतं राधिकास्तोत्रम् 

ब्रह्मोवाच ।
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ ९४॥

सुदुर्लभं च सर्वेषां भारते च विशेषतः ।
षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ ९५॥

भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः ।
आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ९६॥

वरं वृणीष्वेत्युक्ते च स्वाभीष्टं च वृतं मुदा ।
राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥ ९७॥

हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय ।
मयेत्युक्तो हरिरयमुवाच मां…
bottom of page