top of page
विलापकुसुमाञ्जलिः (रघुनाथदासगोस्वामिविरचिता) | Vilapa kusumanjali
श्रीविलापकुसुमाञ्जलिः
त्वं रूपमञ्जरि स खि प्रथिता पुरेऽस्मि-
न्पुंसः परस्य वदनं न हि पश्यसीति ।
बिम्बाधरे क्षतमनागतभर्तृकाया
यत्ते व्यधायि किमु तच्छुकपुङ्गवेन ॥ १॥ (वसन्त)
स्थलकमलिनि युक्तं गर्विता काननेऽस्मि-
न्प्रणयसि वरहास्यं पुष्पगुच्छच्छलेन ।
अपि निखिललतास्ताः सौरभाक्ताः स मुञ्च-
न्मृगयति तव मार्गं कृष्णभृङ्गो यदद्य ॥ २॥ (मालिनी)
व्रजेन्द्रवसतिस्थले विविधवल्लवीसङ्कुले
त्वमेव रतिमञ्जरि प्रचुरपुण्यपुञ्जोदया ।
विलासभरविस्मृतप्रणयिमेखलामार्गणे
यदद्य निजनाथ…bottom of page
