top of page

विशाखानन्दाभिधस्तोत्रम् (रघुनाथदासगोस्वामिविरचितम्) | Vishakha nandabhidha stotram

श्रीविशाखानन्दाभिधस्तोत्रम् 

भावनामगुणादीनामैक्यात्श्रीराधिकैव या ।
कृष्णेन्दोः प्रेयसी सा मे श्रीविशाखा प्रसीदतु ॥ १॥

जयति श्रीमती काचिद्वृन्दारण्यविहारिणी ।
विधातुस्तरुणीसृष्टिकौशलश्रीऋ इहोज्ज्वला ॥ २॥

छिन्नस्वर्णसदृक्षाङ्गी रक्तवस्त्रावगुण्ठिनी ।
निर्बन्धबद्धवेणीका  चारुकाश्मीरचर्चिता ॥ ३॥

द्विकालेन्दुललाटोद्यत्कस्तूरीतिलकोज्ज्वला ।
स्फुटकोकनदद्वन्द्व बन्धुरीकृतकर्णिका ॥ ४॥

विचित्रवर्णविन्यास चित्रितीकृतविग्रहा
कृष्णचोरभयाच्चोली गुम्फीकृतमणिस्तनी ॥ ५॥

हारमञ्जीरकेयूर चूडानासाग्रमौक्तिकैः ।
मुद्रिकादिभिरन्यैश्च  भूषिता भूषणोत्तमैः ॥ ६॥

सुदीप्तकज्जलोद्दीप्त नयनेन्दीवरद्वय ।
सौरभोज्ज्वलताम्बूल मञ्जुला श्रीमुखाम्बुजा ॥ ७॥

स्मितलेशलसत्पक्व चारुबिम्बफलाधरा ।
मधुरालापपीयूष सञ्जीवितसखीकुला ॥ ८॥

वृषभानुकुलोत्कीर्ति वर्धिका भानुसेविका ।
कीर्तिदाखणिरत्नश्र…
bottom of page