top of page
व्रजविलासस्तवः (रघुनाथदासगोस्वामिविरचितः) | Vraj Vilas stavah
व्रजविलासस्तवः
अथ व्रजविलासस्तवः ।
श्रीश्र ीराधाकृष्णपादाम्बुजेभ्यो नमः ।
प्रतिष्ठा रज्जूभिर्बद्धं कामाद्यैर्वर्त्मपातिभिः ।
छित्त्वा ताः संहरन्तस्तानघारेः पान्तु मां भटाः ॥ १॥
दग्धं वार्धकवन्यवह्निभिरलं दष्टं दुरान्ध्याहिना
विद्धं मामतिपारवश्यविशिखैः क्रोधादिसिंहैर्वृतम् ।
स्वामिन् प्रेमसुधाद्रवं करुणया द्राक्पायय श्रीहरे
येनैतानवधीर्य सन्ततमहं धीरो भवन्तं भजे ॥ २॥
यन्माधुरी दिव्यसुधारसाब्धेः
स्मृतेः कणेनाप्यतिलोलितात्मा ।
पद्मैर्व्रजस्थानखिलान्व्रजं च
नत्वा स्वनाथौ बत तौ दिदृक्षे ॥ ३॥
प्रादुर्भावसुधाद्रवेण नितरामङ्गित्वमाप्त्वा ययो-
र…bottom of page
