top of page
श्रीराधास्तोत्रम् ०९ (गणेशकृतं ब्रह्मवैवर्तपुराणान्तर्गतम् तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे) | Ganesha kritam shri Radha stotram 09
गणेशकृतं श्रीराधास्तोत्रम् ९
गणेश उवाच ।
तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे ।
ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ ३॥
यत्पादपद्ममतुलं ध्यायन्ते ते सुदुर्लभम् ।
सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ ४॥
जीवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः ।
तस्य प्राणाधिदेवी त्वं प्रिया प्राणाधिका परा ॥ ५॥
वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः ।
महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ॥ ६॥
वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी ।
वेदानां जगतामेव मूल्प्रकृतिरीश्वरी ॥ ७॥
सर्वाः…bottom of page
