top of page

सङ्कल्पकल्पद्रुमः (विश्वनाथचक्रवर्तिन् ठक्कुरविरचितः) | Sankalpakalpadrumah by Vishvanatha chakravartin

श्रीसङ्कल्पकल्पद्रुमः 
श्रीश्रीराधामदनगोपालो विजयते
वृन्दावनेश्वरि वयोगुणरूपलीला
     सौभाग्यकेलिकरुणाजलधेऽवधेहि ।
दासी भावानि सुखयानि सदा सकान्तां
     त्वामालीभिः परिवृतामिदमेव याचे ॥ १॥

श‍ृङ्गारयाणि भवतीमभिसारयाणि
     वीक्ष्यैव कान्तवदनं परिवृत्य यान्तीम् ।
धृत्वाञ्चलेन हरिसन्निधिमानयानि
     सम्प्राप्य तर्जनसुधां हृषिता भवानि ॥ २॥

पादे निपत्य शिरसानुनयानि रुष्टां
     तां प्रत्यपाङ्गकलिकामपि चालयानि ।
तद्दोर्द्वयेन सहसा परिरम्भयानि
     रोमाञ्चकञ्चुकवतीमवलोकयानि ॥ ३॥

प्राणप्रिये कुसुमतल्पमलङ्कुरु त्वं
     इत्यच्युतोकित्मकरन्दरसं धयानि ।
मां मुञ्च माधव सत…
bottom of page