top of page
स्वसङ्कल्पप्रकाशस्तोत्रम् (रघुनाथदासगोस्वामिविरचितम्) | Svasankalpa prakasha stotram
स्वसङ्कल्पप्रकाशस्तोत्रम्
अनाराध्य राधापदाम्भोजरेणुं
अनाश्रित्य वृन्दाटवीं तत्पदाङ्काम् ।
असम्भाष्य तद्भावगम्भीरचित्ता-
न्कुतः श्यामसिन्धौ रस्यस्यावगाहः ॥ १॥
नवं दिव्यं काव्यं स्वकृतमतुलं नाटककुलं
प्रहेलीर्गूढार्थाः सखि रुचिरवीणाध्वनिगतीः ।
कदा स्नेहोल्लासैर्ललितललिताप्रेरणबला-
त्सलज्जं गान्धर्वा सरसमसकृच्छिक्षयति माम् ॥ २॥
अलं मानग्रन्थेर्निभृतचटुमोक्षाय निभृतं
मुकुन्दे हा हेति प्रथयति नितान्तं मयि जने ।
तदर्थं गान्धर्वाचरणपतितं प्रेक्ष्य कुटिलं
कदा प्रेमक्रौर्यात्प्रखरललिता भर्त्सयति माम् ॥ ३॥
मुदा वैदग्ध्यान्तर्ललितनवकर्पूरमिलन
स्फुरन्नानानर्मो…bottom of page
