top of page

स्वामिनीस्तोत्रम् (विठ्ठलेश्वरविरचितम्) | Svamini stotram

श्रीस्वामिनीस्तोत्रम् 
यदैव श्रीराधे! रहसि मिलति त्वां मधुपतिः
      तदैवाकार्याऽहं निजचरणदास्ये निगदिता ।
मुदा चन्द्रावल्या शशिमुखि ! कृतार्थास्मि भवति
      तथा सम्पन्ने मां स्मरसि यदि सम्प्रेषणविधौ ॥ १॥

कदाचित् कालिन्द्यामहनि तरलापाड्गरुचिरा
      समाप्लुत्याकण्ठं किमपि परिधायाशुवसनम् ।
स्मरेन् मां चेदुत्तारितवसनसङ्क्षालनविधौ
      कृतार्थाऽहं भूयान्निजचरणदासीति भवति ॥ २॥

तमिस्रायामश्रावितचरणमञ्जीरनिनदा
      कथञ्चित् सम्प्राप्ता प्रियतमनिकुञ्जं चरणयोः ।
मुदा तल्पारोहे कमलमुखि ! सम्मार्जनविधौ
     …
bottom of page