top of page

स्वामिन्यष्टकम् (विठ्ठलेश्वरविरचितम्) | Svamini ashtakam

 श्रीस्वामिन्यष्टकम् 
रहस्यं श्रीराधेत्यखिलनिगमानामिव धनं
     निगूढं यद्वाणी जपत सततं जातु न परम् ।
प्रदोषे दृग्मोषे पुलिनगमनायातिमधुरं
     बलत्तस्याश्चञ्चच्चरणयुगमास्तां मनसि मे ॥ १॥

अमन्दप्रेमार्द्रप्रियकरतलं कुङ्कुमपिष-
     त्कुचद्वन्द्वे वक्षस्यपि च दधती चारु सततम् ।
कृपां कुर्याद्राधामयि रुचिरहेमाद्रिशिखरो-
     दितप्रावृण्मेघस्मरहरहरी चूचुकमिषात् ॥ २॥

निमन्त्र्य प्रातर्या निजहृदयनाथं निरुपमा
     सुकौमार्यैकाकिन्यतिघनवनादात्मभवने ।
वधियान्नं स्वादु स्वयमतिमुदा भोजयति सा
     मयि प्रीता राधा भवतु हरिसङ्गार्पितमन…
bottom of page