top of page

रेणुकाषट्कम् (गणपतिमुनिविरचितम्) | Renuka Shatkam

श्रीरेणुकाषट्कम् 

श्रीगणेशाय नमः ।

जयदेवसमूहनुते जमदग्निमुनेर्दयिते ।
जननं विबुधावनि ते जगतामुपकारकृते ॥ १॥

विपिने विप्ने विनुता नगरे नगरे नमिता ।
जयति स्थिरचित्तहिता जमदग्निमुनेर्वनिता ॥ २॥

मतिकैरविणीन्दुकला मम हृत्कमले कमला ।
जयति स्तुतिदूरबला जमदग्निवधूर्विमला ॥ ३॥

कलिपक्षजुषां दमनी कलुषप्रततेः शमनी ।
जयति स्तुवतामवनी जगतामवतुर्जननी ॥ ४॥

निखिलामयतापहरी निजसेवकभव्यकरी ।
जमदग्निनदोपझरी जयतीश्वरचिल्लहरी ॥ ५॥

सकलामयनाशचणे सततं स्मरतः सुगुणे ।
मम कार्यगतेः प्रथमं मरणं न…
bottom of page