top of page

रेणुकासहस्रनामस्तोत्रम् (पद्मपुराणान्तर्गतम्, रेणुकातन्त्रान्तर्गतम्) | Reuka sahasra nama stotram

श्रीरेणुकासहस्रनामस्तोत्रम् 
अथ श्रीरेणुकातन्त्रान्तर्गतं श्रीरेणुकासहस्रनामस्तोत्रम् ।
श्री गणेशाय नमः । श्री रेणुकायै नमः ।
गिरिपृष्ठे समासीनं शङ्करं लोकशङ्करम् ।
प्रणतः परिपप्रच्छ संशयस्थः षडाननः ॥ १॥

स्कन्द उवाच --
तात सर्वेश्वरस्त्वं हि सर्वज्ञः सर्वभावनः ।
कथयस्व प्रसादेन रहस्यं सकलार्थदम् ॥ २॥

विजयः सङ्कटे घोरे निर्विघ्नं बलमुत्कटम् ।
अन्येऽपि वाञ्छितार्थाश्च सिद्ध्यन्त्याशु विना श्रमम् ॥ ३॥

शङ्कर उवाच --
साधु पृष्टं महाबाहो संशयो मास्तु…
bottom of page