top of page

रेणुकास्तोत्रम् | Hymn to Goddess Renuka

रेणुकास्तोत्रम् 
     श्रीगणेशाय नमः ।
पाकामृतांशुमकुटाभरणा भवानी
     शोकापहा नतजनस्य शुभाखिलाङ्गी ।
कोकाकृतिस्तनभरा कुशलानि नित्यं
     मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ॥

श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति सम्प्रदायः ॥ ॐ ॥

कालाग्न्यादि शिवावसानमखिलं ते गुल्फदघ्नं शिवे
     मूर्तिं कीर्तयितुं न कस्य रसना लज्जाम्बुधौ मज्जति ।
तस्मात् त्वच्चरणैकदेशनखरज्योतिःस्फुलिङ्गा इव
     स्फूर्जन्ति प्रभविष्णवश्च सततं ते पद्मनाभादयः ॥ १॥

कल्पः कोऽपि स शाम्भवो विजयते मातस्त्वया कल्पितो
     …
bottom of page